सागरः

सागरः भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः । भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते । प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः ।

प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्

अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते । भूविस्तारस्य (~३.६ X १०८ कि मी) ७२% भागः लवणजलेन आवृत्तः विद्यते । अयं सागरः प्रमुखसागरत्वेन विभक्तः । भूमेः जलस्य ९७% सागरस्य जलमेव । सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स् (१२, ०८० पादमितम्) । अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम् । भूमेः ०.०२३% भारः अस्य विद्यते । सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते ।

भूमेः विश्वसागरःसम्पादयतु

वैश्विकविभागःसम्पादयतु

यद्यपि विभिन्नाः सागराः इति निर्दिश्यते तथापि वैश्विके स्तरे ते सर्वे परस्परम् अनुबद्धः लवणजलसमूहः एव यश्च विश्वसागरः इति निर्देष्टुम् अर्हः । अविच्छिन्नजलजालः अयम् इत्येषा परिकल्पना समुद्रविज्ञानस्य मूलभूतांशेषु अन्यतमः । भूखण्डानुगुणं कृतः प्रमुखाः विभागाः विस्तारानुगुणम् अधः दर्शितः विद्यते -

स्थानम्सागरःविवरणम्
पेसिफिक्-महासागरःएशिया-ओशेनियाप्रदेशौ अमेरिकातः पृथक्करोति
अट्लाण्टिक्-महासागरःअमेरिकां युरेसिया-आफ्रिकातः पृथक्करोतु
हिन्दुमहासागरःआफ्रिका-आस्ट्रेलियाखण्डौ पृथक्करोति
दक्षिणमहासागरःपेसिफिक्-अट्लाण्टिक्-हिन्दुमहासागराणाम् विस्तृतभागत्वेन गण्यमानः अयम् अण्टार्क्टिकां परितः दृश्यते
आर्क्टिक्-महासागरःआर्क्टिक्-प्रदेशं व्याप्य उत्तरामेरिका-युरेशियामपि स्पृशति

भौतिकगुणाःसम्पादयतु

जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते । सागरे विलीनतां गतैः बहुभिः रासायनिकवस्तुभिः सागरः नीलवर्णतां प्राप्नोति, तत्र प्रमुखं कारणं तस्मिन् विद्यमानं क्लोरोफिल्-रासायनिकम् । सागरेण कश्चन प्रकाशः प्रसार्यते, रात्रिकाले सः प्रकाशः मैल्परिमितं दूरं व्याप्नोति इति सागरे चरद्भिः नाविकैः अन्यैः च उक्तमस्ति । २००५ तमे वर्षे विज्ञानिभिः प्रथमवारं घोषितं यत् तस्य प्रकाशस्य भावचित्रं स्वीकृतमस्ति इति ।

आविष्कारःसम्पादयतु

नौकया सागरप्रवासस्य इतिहासः अति प्राचीनः विद्यते चेदपि अन्तर्जलप्रवासस्तु आधुनिके काले एव साध्यं जातम् । सागरस्य गभीरतमबिन्दुः विद्यते - ’मरियाना ट्रेञ्च्’ इत्येषः । अयं प्रशान्तसागरस्य समीपे विद्यमाने उत्तरमरियानाद्वीपे विद्यते । अस्य गरिष्ठगभीरता १०, ९७१ मीटर्स्मितम् (३५,९९४ पादमितम्) ।

वायुमण्डलम्सम्पादयतु

सागरस्य तरङ्गैः भूमेः वायुमण्डलस्य उपरि महान् प्रभावः भवति ।

सागरप्रदेशःसम्पादयतु

भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते ।समुद्रस्य भूतलस्य च विस्तारः एवमस्ति - समुद्रः ३६२ दशलक्षचतुरस्रकिलोमीटर्मितः ।भूतलः १४८ दशलक्षकिलोमीटर्मितः।

अट्लाण्टिक्सागरस्य मनोहरदृश्यम्

विस्तारःसम्पादयतु

अ)शान्तसागरः - १६५ दशलक्षचतुरस्रकिलोमीटर्मितः।
आ)अट्लाण्टिक्सागरः - ८२ दशलक्षचतुरस्रकिलोमीटर्मितः।
इ) हिन्दूमहासागरः - ७४ दशलक्षचतुरस्रकिलोमीटर्मितः।
ई) आर्ल्टिक् सागरः -१४ दशलक्षचतुरस्रकिलोमीटर्मितः।

गभीरतासम्पादयतु

अ) शान्तसागरः - म्यारिनास् ट्रेञ्च् - ११,०३२ मीटर्मितः।
आ) आट्लाण्टिक्सागरः - प्यूर्टोरिको ट्रेञ्च् - ८.३८१ मीटर्मितः।
इ) हिन्दूमहासागरः - डैम्य़ाण्टिना - ८,०४७ मीटर्मितः।

ई) आर्क्टिक्सागरः-(नामकरणं न कृतम्) - ५,४४१ मीटर्मितः।

सापेक्ष-औन्न्त्यम्सम्पादयतु

सर्वेषां सागराणाम् अपेक्षया अतिगभीरता अस्ति शान्तसागरस्य म्यारिनास्ट्रेञ्च् , एवरेस्ट् शिखरस्य (८८४८ मीटर्मितम्)अपेक्षया २१८५ मीटर् गभीरतायुतः अस्ति ।

समुद्रयानम्सम्पादयतु

प्रथमवारं समुद्रयानं कृतवतः मेगेल्लनस्य विक्टोरिया नोकायाः यात्रा क्रि.श. १५१९ तमे वर्षे स्पेन्देशतः आरभ्य पुनः क्रि.श .१५२२ तमे वर्षे पुनः तत्रैवागता । यात्रायां आट्लाण्टिक्सागरं, शान्तसागरं, हिन्दूमहासागरं तीर्त्वा आगता ।

बाह्यसम्पर्कतन्तुःसम्पादयतु

"https:https://www.duhocchina.com/baike/index.php?lang=sa&q=सागरः&oldid=481074" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीपटलम्:Argumentsइण्डोनेशियासंस्कृतम्इस्लाम्-मतम्विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriya१६२५अजमेरविशेषः:अन्वेषणम्विकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानि१५५७१५७७१८३८१८९६d21obविकिमीडिया१७०११७०५विकिपीडियारने देकार्तनार्थ केरोलैनाविकिपीडिया:नीतिसभा१६१३भारविःसामाजिकमाध्यमानिक्विकिस्रोतःवेदःभारतस्य नृत्यकलाःमीराबाई१४०७१५७३कलिङ्गयुद्धम्आस्ट्रेलियाकदलीफलम्विद्यारण्यःविकिपीडिया:विचारसभासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काफीपेयम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअभिज्ञानशाकुन्तलम्कोल्लेग्नोधर्मःक्रीडापरमहंस-उपनिषत्कालाग्निरुद्र-उपनिषत्अमृत-बिन्दूपनिषत्माधवः (ज्योतिर्विद्)अथर्वशिरोपनिषत्कालिदासःबार्सेलोनाभगवद्गीताकुमारसम्भवम्संस्कृतविकिपीडिया१५५२विकिःबहासा इंडोनेशियापुरुषार्थःरघुवंशम्मृच्छकटिकम्पुराणम्१६ फरवरीखैबर्पख्तूङ्ख्वाप्रदेशःनव रसाःस्वामी विवेकानन्दःविकिपीडिया:सभासितम्बर ११दशकुमारचरितम्दण्डीमीमांसादर्शनम्विकिपीडिया:दूतावासः/Embassy९ अक्तूबरऋतुःगुरुग्रहःजनवरी ८अष्टाङ्गयोगःफलकम्:Wikipediasisterवॉशिंगटन, डी॰ सी॰मोहम्मद रफीब्रासीलभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)भौतिकशास्त्रम्वर्गः:१९६०सुवर्णम्ऋग्वेदःरामायणम्८०५१ मैक्रोकन्ट्रोलर्गर्भधारणम्टेनिस्-क्रीडाद्वितीयविश्वयुद्धम्जपान्४६८अक्षरम्रास्या